पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

चतुर्थः पटलः ॥



चतुर्थ: पटलः ।
अथ व्यवस्थिते त्वेवमस्य शक्तित्वमिष्यते ।
कृतकृत्यस्य जगति सततं रूढसंस्थितेः ॥ १
प्राणात्मकं हकाराख्यं बीजं तेन तदुद्भवाः ।
षडूर्मयः स्यू रेफोत्था गुणाश्चत्वार एव च ॥ २
पवनाद्याः पृथिव्यन्ताः स्पर्शाद्यैश्च गुणैः सह ।
करणान्यपि चत्वारि सङ्घातश्चेतनेति च ॥ ३
ईकारस्य गुणाः प्रोक्ताः षड़िति क्रमशो बुधैः ।
ऊकारान्तास्त्वकाराद्याः षड्वर्णाः षड्भ्य एव च ॥ ४
प्रभेदेभ्यः समुत्पन्ना हकारस्य महात्मनः ।
ऋकाराद्यास्तु चत्वारो रेफोत्था लॄपराः स्मृताः ॥ ५
एकारादिविसर्गान्तं वर्णानां षट्कमुद्गतम् ।
ईकारस्य षड़ङ्गेभ्य इतीदं षोड़शाङ्गवत् ॥ ६
एभ्यः संजज्ञिरेऽङ्गेभ्यः स्वराः षोड़श सर्वगाः ।
तेभ्यो वर्णान्तराः सर्वे ततो मूलमिदं विदुः ॥ ७


1, मातो.