पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३४
प्रपञ्चसारे


उकारयोगात्तस्यैव स्थादोकाराह्वयः स्वरः ।
तस्यैवौकारयोगेन स्यादौकाराह्वयः स्वरः ॥ ६३
सन्ध्यक्षराः स्युश्चत्वारो मन्त्राः सर्वार्थसाधकाः ।
ऌवर्णर्वर्णयोर्व्यक्तिः लरोः सम्यक् प्रदृश्यते ॥ ६४
बिन्दु सर्गात्मनोर्व्यक्तिममसोरजपां वदेत् ।
कण्ठात्तु निःसरन् सर्ग: प्रायोऽचामेकतः परः ॥ ६५
नश्वर: सर्ग एव स्यात् सोष्मा सप्राणकस्तु हः ।
स सर्गः श्लेषितः कण्ठे वायुनाऽकादिमीरयेत् ॥ ६६
वर्गं(सर्ग) स्पर्शनमात्रेण कं स्वरस्पर्शनात् तु खम् ।
स्तोकगम्भीरसंस्पर्शात् गघौ ङश्च बहिर्गतः ॥ ६७
विसर्गस्तालुगः(ससर्गस्तालुगः) सोष्मेशं(सौष्म्यः) च वर्गञ्च यं तथा ।
ऋटुरेफषकारांश्च मूर्धगो दन्तगस्तथा ॥ ६८
ऌतवर्गलसानोष्ठादुपूपध्मानसंज्ञकान् ।
दन्तौष्ठाभ्यां वञ्च तत्तत्स्थानगोऽर्णान् समीरयेत् ॥ ६९


1.पदिश्यते