पृष्ठम्:प्रपञ्चसारः (प्रथमो भागः).pdf/४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२२
प्रपञ्चसारे


ज्ञाताऽस्मीति यदा भावो मनोऽहङ्कारबुद्धिमान् ।
जातश्चित्पूर्वको जन्तो: स भावः क्रमवर्धितः ॥ ४५
बध्नाति मातापित्रोस्तु ततो बन्धुषु च क्रमात् ।
स पीत्वा बहुशः स्तन्यं मातरं स्तन्यदायिनीम् ॥ ४६
इच्छन् रोदिति तां वीक्ष्य तत्र स्यादितरेतरम् ।
बन्धस्तदाऽधिकर्त्तारमतिस्निग्धमनन्यगम् ॥ ४७
पितरं वीक्ष्य तत्रापि तथा भ्रातरमेव च ।
पितृव्यमातुलादींश्च समुद्दीक्ष्य प्रमोदते ॥ ४८
एवं संबद्धसंसारबान्धवो विस्मरिष्यति ।
पूर्वकर्म च गर्भस्थमुद्भूतिक्लेशमेव च ॥ ४६
अथ स्वमुत्तारयितुमाह्वयेज्जननीं मुहुः ।
अवैशद्यान्मुखस्रोतोमार्गस्याऽविशदाक्षरम् ॥ ५०


1, पचघिरामारमाधवी