पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/९९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३८८ प्रपश्चसारे स्थूलाय मूलभूताय शूलदारितविद्विषे । कालहन्त्रे नमश्चन्द्रखण्डमण्डितमौलये ॥ ६० ॥ विवाससे कपर्दान्तभ्रार्न्ताहिसरिदिन्दवे । देवदैत्यासुरेन्द्राणां मौलिघृष्टाय नमः ॥ ६१ ॥ भस्माभ्यक्ताय भक्तानां भुक्तिमुक्तिप्रदायिने । व्यक्ताव्यक्तस्वरूपाय शंकराय नमो नमः ।। ६२ ॥ नमोऽन्धकान्तकरिपवे पुरद्विषे नमोऽस्तु ते द्विरदवराहभेदिने । विषोल्लसत्कणिकुलबद्धमूर्तये नमः सदा वृषवरवाहनाय ते ॥ ६३ ॥ वियन्मरुद्भुतवहधासुंधरा- मखेशरव्यमृतमयूखमूर्तये । नमः सदा नरकभयावभेदिने भवेह नो भवभयभङ्गकृद्विभो ।। ६४ ॥ स्तुत्वेन्दुखण्डपरिमण्डितमौलिमेव- मुद्वासयेत्पुनरमुं हृदयाम्बुजे स्वे ।