पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पञ्चविंशः पटलः । स तु सम्यगवाप्य दृष्टभोगा- न्परमन्ते परिपूर्णमेति धाम ॥ २४ ॥ वक्ष्यामि शैवागमसारमष्ट- त्रिंशत्कलान्यासविधिं यथावत् । सपञ्चभिब्रह्महरीशपूर्वैः सर्ष्यादिकैः साङ्गविशेषकैश्च ।। २५ ॥ ईशोऽनुष्टुब्भूरी- श्वरा: स तत्पुरुषसंज्ञगायत्र्यापः । पुनरग्न्यनुष्टुबापो वामदेवः कतिमर्गहरस्त्वनुष्टुब्भगयुक् ॥ २६ ॥ इन्द्रियतारसमेतं खर्वज्ञायेति हृच्छिरस्त्वमृते । तेजोमालिनिपूर्वे तृप्राय ब्रह्माशिरस इति कथितम् ॥ २७ ॥ ज्वलितशिखिशिखेत्य- नादिबोधाय चान्वितेति शिखा ।