पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/९१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३८०
प्रपञ्चसारे

 पाटलपीतसितारुण-
  शितिरक्तशशिप्रभाश्च धूम्रान्ताः ।
 कोटीरघटितविलस-
  च्छशिशकलयुताश्च मूर्तयः क्रमशः ॥ २० ॥

उमा चण्डेश्वरो नन्दी महाकालो गणेश्वरः ।
वृषो भृङ्गिरिटः स्कन्दः संपूज्याश्चोत्तरादितः ॥ २१ ॥

 कनकविडूरजविद्रुम-
  मरतकमुक्तासिताच्छरक्ताभाः ।
 पद्मासनसंस्थाश्च
  क्रमादुमाद्या गुणान्तिका: प्रोक्ताः ॥ २२ ॥

 पुनराशेशास्तदनु च
  कुलिशाद्यादिक्रमेण संपूज्याः ।
 प्रासादविधानमिदं
  निगदितमिति सकलवर्गसिद्धिकरम् ॥ २३ ।।

 अमुना विधिना महेशपूजां
  दिनशो यः कुरुते समाहितात्मा ।