पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/८६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

पञ्चविंशः पटलः॥


 अथाभिधास्यामि मनुं समासा-
  त्प्रासादसंझं जगतो हिताय ।
 येन प्रजप्तेन तथार्चितेन
  हुतेन सिद्धिं लभते यथेष्टम् ॥ १

 प्रसादनत्वान्मनसो यथाव-
  त्प्रासादसंज्ञास्य मनो: प्रदिष्टा ।
 अन्त्यात्तृतीय: प्रतिलोमतः स्या-
  दनुग्रहार्धेन्दुयुतश्च मन्त्रः ॥ २ ॥

 ऋषिरस्य वामदेवः
  पङ्क्तिश्छन्दोऽस्य देवतेश: स्यात् ।
 तेनेवाक्लीबकला-
  दीर्घयुजाङ्गानि तस्य बीजेन ॥ ३ ॥