पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/८४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३७३
चतुर्विंशः पटलः ।

स्थापयेद्वैष्णवे स्थाने विश्वरूपधिया सुधीः ।
ततः क्रमेण चक्रादीन्दिक्कुण्डेषु चतुर्ष्वपि ॥ ५५ ॥

पुनः शङ्खादिकांस्तद्वत्कुण्डेष्वश्राश्रितेष्वपि ।
तथा दण्डादिकानष्टौ च्छिद्राशासु प्रकल्पयेत् ॥ ५६ ॥

मध्ये पुनरधश्चोर्ध्वे कोलकेसरिणौ यजेत् ।
चक्रस्य प्राक्तने कुण्डे स्थापयेद्विनतासुतम् ॥ ५७ ॥

तत: समस्थलीकृत्य क्रमात्समुपलिप्य च ।
प्रत्यगानन आसीनो मध्यगस्थाण्डिलस्थिते ॥ ५८॥

यज्ञे काञ्चनपत्रस्थे पूजयेत्पूर्ववत्प्रभुम् ।
बादित्रघोषबहुलं निवेद्यान्तं यथाक्रमम् ॥ ५९॥

हुनेश्च पूर्वसंदिष्टैर्द्रव्यैः पूर्वोक्तमार्गतः ।
आशोपाशान्तराशासु बलिं दद्यात्रिशस्त्रिशः ॥ ६०॥

क्रमाञ्चक्रादिमूर्तीनां पञ्चपूरान्धसा सुधीः ।
तत उद्वास्य देवेशं पूजां प्रतिसमाप्य च ॥ ६१ ।।

दत्वा सुवर्णे वासांसि गुरवे ब्राह्मणानपि ।
संतर्प्य विभवैः सम्यग्भोजयेद्देवताधिया ॥ ६२ ॥