पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/७७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३६६
प्रपञ्चसारे

 शक्त्या पाशाङ्कुशकुलिशटङ्काग्निभिश्चार्कवह्नि-
  द्योतदूक्त्राङ्घ्रिकसरसिजं तप्तकार्तस्वराभम् ।।

विष्णुं भास्वत्किरीटं मणिमकुटकटीसूत्रकेयूरहार-
 ग्रैवेयोर्म्यादिमुख्यामरणमणिगणोल्लासिदिव्याङ्गरागम् ।
विश्वाकाशावकाशप्रविततमयुतादित्यनीकाशमुद्य-
 द्वाह्वप्रव्यग्रनानायुधनिकरकरं विश्वरूपं नमामि ।।

 अभ्यर्च्य पूर्ववत्पीठं नवशक्तिसमन्वितम् ।
 अर्चयेत्क्रमशो विद्वान्मूर्तिशक्तिचतुष्टयम् ।। २२ ।।

 चक्रं च चक्राङ्ककिरीटमौलिं
  सचक्रशङ्खं सगदं सशार्ङ्गम् ।
 रक्ताम्बरं रक्ततनुं कराल-
  दंष्ट्राननं प्राग्दलकेऽर्चयीत ।। २३ ॥

 पूज्या गदा गदाङ्कित-
  मौलिः सगदा सचक्रशङ्खधनुः ।
 पीताम्बरानुलेपा
  पीता क्रुद्धा च याम्यसंस्थदले ॥ २४ ॥