पुटमेतत् सुपुष्टितम्
३६४
प्रपञ्चसारे
विलिखेद्दण्डं कुन्तं शक्तिं
पाशाङ्कुशं कुलिशशतमुखवह्नीन् ॥ ८ ॥
सप्रणवहृदयभगव-
द्विष्णुस्वाख्यानमूर्तिधरयुक्ताः ।
सेनापतिसहिता निज-
मन्त्रान्ता मूर्तयोऽत्र लिखितव्याः ॥ ९॥
सहस्रारपदं पूर्वे कौमोदकि ततो भवेत् ।
महाशार्ङ्गपदं पश्चान्महाखड्गपदं पुनः ॥ १० ॥
प्रोक्तानि वर्मास्त्रान्तानि निजमन्त्राणि वै क्रमात् ।
पूर्वे महापाञ्चजन्यं महाहलमनन्तरम् ॥ ११ ॥
ततो महामुसलकं महाशूलं ततः परम् ।
स्वाहान्तानि च मन्त्राणि शङ्खादीनां क्रमाद्विदुः ॥ १२ ॥
दण्डादीनामथाष्टानामन्ते युञ्ज्यान्नमःपदम् ।
पोत्रोद्धृतधरं विद्वान्वाराहे विष्ण्वभिख्ययोः ॥ १३ ॥
अन्तरा योजयेन्मन्त्री नारसिंहं पुनः सुधीः ।
नखं च दलितं चैव रिपुविग्रहमेव च ॥ १४ ॥