पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/७१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३६०
प्रपञ्चसारे

 मासेन वाञ्छितमवाप्स्यति मन्त्रजापी
  स्याद्वत्सरेण धनधान्यसमृद्धगेहः ॥५१॥
 आरक्तैस्तरणिसहारकं प्रफुल्लै-
  रम्भोजैस्त्रि्मधुरसंयुत्तैर्जुहोति ।

 लक्ष्मी: स्यादथ महती महत्तथायु:
  संप्राप्तः सकलजगत्प्रियश्च भूयात् ।। ५२ ॥
 लाजाभिस्त्रिमधुरसंयुताभिरह्वो
  मासार्धे प्रतिजुहुयान्मुखे सहस्रम् ।

 कन्यार्थी प्रतिलभते वरोऽथ कन्यां
  कन्या वा भवति वरार्थिनी वराढ्या ॥५३॥
 तिलै: सराजीखरमञ्जरीसमि-
  द्धविर्धृ्तैश्च द्विसहस्रसंख्यकैः ।

 प्रजुह्वतो नैव रुजा ग्रहोद्भवा
  न चाभिचारक्षतिरस्य जायते ॥ ५४ ॥
 दशाधिकशतैः पयोघृतयुतैश्च दूर्वात्रयै-
  र्हुनेदिनमुखेऽपि यो नरहरिं विचिन्त्यानले ।