पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/६९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३५८
प्रपञ्चसारे

रक्ताकारश्च नाभेरध उपरि सितो दिव्यभूषाविशेषो
 देवोऽर्काग्नीन्दुनेत्रो निखिलसुखकरो नारसिंहश्चिरं वः ॥

हल्लेखान्तःस्थसाध्यं दहनपुरयुगाश्रिस्थमन्तार्णमन्तः-
 सिंहानुष्टुप्चतुर्वर्णकलसितदलाढ्यं कलाकेसरं च ।
वृत्तोद्यद्यञ्जनावेष्टितमवनिपुराश्रस्थचिन्तोपलं त-
 द्यन्त्रं रक्षःपिशाचामयविषयरिपुध्वंसनं नारसिंहम् ।।

 इति विरचितयन्त्रप्रोज्ज्वले मण्डले प्रा-
  क्समभिहितकषायाम्भोभिरापूर्य कुम्भम् ।
 प्रतियजतु तदङ्गैरस्त्रभेदैस्तदीयै-
  स्तदनु मखशताद्यैः साधुवज्रादिकैश्च ॥ ४५ ॥

 रथचरणशङ्खपाशा-
  ङ्कुशकुलिशगदाहयानि चास्त्राणि ।
 दारुणमुद्राकरयो-
  र्ययोस्तदीयौ कृपाणखेटाख्यौ ।। ४६ ॥

 इति कृतदीक्षः प्रजपे-
  दक्षरलक्षप्रमाणकं मन्त्रम् ।