पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/६७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३५६
प्रपञ्चसारे

 तस्य पुरस्ताद्विधिव-
  न्निधाय वह्निं विभीततरुकाष्ठैः ।
 उज्ज्वलिते च ज्वलने
  समूलतूलैः शरेध्मदशशतकैः ॥
 खादन्निवोञ्चरन्मनु-
  मरींश्च मिन्दन्निव क्षिपेत्समिधः ॥ ३६ ॥

 हुत्वा परराष्ट्रेभ्यः
  पृतनां संनाह्य च पुरस्तस्याः ।
 निघ्नन्तं रिपुसेनां
  स्मरन्नृसिंहं पुरेव दितितनयात् ॥ ३७ ॥

 यावज्जितारिरेष्यति
  नृपतिस्तावज्जपेत्स्मरन्नेवम् ।
 सेन्द्रसुरासुररक्षो-
  यक्षानपि जयति का कथा मनुजे ॥ ३८ ॥

श्रीकामः श्रीप्रसूनैर्दशकमथ शतानां हुनेद्विल्वकाष्ठै-
 स्तत्पत्रैर्वा प्रसूनैः सुमतिरथ समिद्भिः फलैर्वा तदीयैः ।