पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रपञ्चसारे दूर्वात्रिकैरष्टसहस्रसंख्यै- राराध्य मन्त्री जुहुयादथाप्सु । शान्ति प्रयान्त्येव तदोपसर्गा भापो हि शान्ता इति च श्रुति: स्यात् ॥ २०॥ उत्पाते महति सति ह्युपद्रवाणां होमोऽयं भवति च शान्तिदो नराणाम् । यद्वान्यन्निजमनसेप्सितं च कामं तच्चाप्नोत्यखिलनृणां प्रियश्च भूयात् ॥ २१ ॥ दुःस्वप्नेष्वपि दृष्टे- ष्ववशिष्टा जाग्रता निशा नेया । जपमानमन्त्रशक्या सुस्वप्नो भवति तत्क्षणादेव ॥ २२ ॥ चरन्वने दुष्टमृगाहिचोर- व्यालाकुले मन्त्रममुं जपेद्यः । असाधितं साधितमेव तस्य न विद्यते भीर्बहुरूपजाता ॥ २३ ॥