पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रपञ्चसारे प्राक्प्रत्यग्यमशशिनां दिगाश्रया मूर्तयोऽनलादिषु च । स्युः शक्तय इत्येवं अक्त्या परया युतोऽर्चयेद्देवम् ॥ १२ ॥ द्वात्रिंशके सहस्रै- रधिकृतिरचुतैर्भवेत्पुरश्चरणम् । तावद्भिस्तावद्भि- र्लक्षैः सिद्धिः समीरितास्य मनोः ॥ १३ ॥ विकृतिद्विगुणसहस्रै- र्जुहुयादाज्यान्वितैश्च दुग्धान्नैः । जपसंपूर्तौ मन्त्री दिनशः संपूजयेच्च नरसिंहम् ॥ १४ ॥ विधाय तद्वीजविशिष्टकर्णिकं चतुश्चतुर्वर्णलसहलाष्टकम् । सुलक्षितं मण्डलमन्यलक्षणै- र्निधाय तस्मिन्कलशं प्रपूर्य च ।। १५ ॥