पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३४८ प्रपञ्चसारे वर्णेश्चतुर्भिरुदितं हृदयं शिरश्न तावद्भिरभिरथास्य शिखा प्रविष्टा । षड्भिश्च वर्म नयनं च चतुर्भिरलं प्रोक्तं क्रमेण मनुनाक्षरशः षडङ्गम् ।। ४ ।। सशिरोललाटद्दग्युग- मुखकरपदसंधिकेषु साप्रेषु । उदरहृदोर्गलपार्श्वे- ष्वपरे ककुदि क्रमान्न्यसेद्वर्णान् ॥ ५ ॥ प्रतिपत्तिरस्य चोक्ता प्रसन्नता क्रूरता विशेषेण । द्विविधा प्रसनया स्या- त्साधनपूजान्यया प्रयोगविधिः ॥ ६॥ जान्बोरासक्ततीक्ष्णवनखरुचिलसद्धाहुसंस्पृष्टकेश- श्चक्रं शङ्खं च दोर्भ्यो दधदनलसमज्योतिषा भग्नदैत्यः । ज्वालामालापरीतं रविशशिदहनत्रीक्षणं दीप्तजिह्वं दंष्ट्रोग्रं धूतकेशं बदनमपि वहन्पातु वो नारसिंहः ।। ७ ।।