पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

द्वाविंशः पटलः । गोशकदम्भोयुक्तै- र्लेखिन्या हैमया दिने प्रवरे ।। ४४ ॥ सौवर्णे राज्वसिद्धिं रजतकफलके प्रामसिद्धिं च ताग्रे साहस्रस्वर्णसिद्धिं भुजदललिखितं चाशु संसारयात्राम् । क्षौमे लाभं धराया: पिचुतरुफलके कार्यसिद्धिं निजेष्टां यन्त्रं संजप्तक्लप्तं घृतहुतकृतसंपातपातं करोति ॥४५॥ मन्त्री समास्थाय वराहरूपं साध्यप्रदेशे निखनेश्च यन्त्रम् । स्थिराख्यराशावभिवाह्य कोल. मङ्गानि दिक्षु क्षिपतां यथावत् ॥ ४६ ॥ यन्त्रमिदं रक्षायै रोगप्रहवैकृतेषु जन्तूनाम् । संजप्य शिरसि बन्ध्या- त्स तु नीरोगस्त्वयत्नतो भवति ॥ १७ ॥ इत्येवं प्रणिगदितो वराहमन्त्रो यस्त्वेनं प्रभजति नित्यशो जपाद्यैः ।