पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

द्वाविंशः पटलः । अष्टपत्रमथ पद्ममुल्लस- त्कर्णिकं विधिवदारचय्य च । मण्डले रविसहस्र संनिभं सूकरं यजतु तत्र सिद्धये ॥ २१ ।। प्रारदक्षिणप्रत्यगुदग्दिशासु चत्वारि चाङ्गानि यजेत्क्रमेण । अखं विदिक्षुर्ध्वमधश्च चक्रा- वस्त्राणि पूज्यानि वराहमूर्तेः ॥ १२ ॥ अरिशङ्खकृपाणखेटसंज्ञा- न्सगदाशक्तिवराभयाह्वयांश्च । अभिपूज्य दिशाधिपान्यथाव- द्वरगन्धाक्षतपुष्पधूपदीपैः ॥ २३ ॥ दंष्ट्रायां वसुधां सशैलनगरारण्यापगां हुंकृती बागीशीं श्वसितेऽनिलं रविशशी बाहोश्च दक्षान्ययोः । कुक्षौ स्थुर्वसवो दिशः श्रुतिपथे दस्नौ दृशोः पादयोः पद्मोत्थो हृदये हरिः पृथगभी पूज्या मुखे शंकरः ॥