पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रपञ्चसारे स्याद्विश्वरूपं कवचं महाद्यो दंष्ट्रोस्खमुक्तं स्वयमेव चाङ्गम् ॥ १६ ॥ सप्तभिश्च पुन: षड्भिः सप्तभिश्चाथ पञ्चभिः । अष्टभिर्मूलमन्त्रार्णौर्विद्ध्यादङ्गकल्पनाम् ॥ १७ ॥ जान्वोरापादमुद्यत्कनकमिव हिमप्रख्यमाजानु नाभे: कण्ठादानाभि वह्निप्रभमथ शिरसश्चार्गलं नीलवर्णम् ! मौलेर्व्योमाभमाकं करलसदरिशङ्खासिखेटं गदा श- क्त्याख्येष्टाभीतियुक्तं प्रणमत वसुधोल्लासिदंष्ट्रं वराहम् ॥ सजलाम्बुवाहनिममुद्धतदो:- परिधं धराधरसमानतनुम् । सितदंष्ट्रिकाधृतभुवं स्वथ वा प्रविचिन्तयेत्सपदि कोलमुखम् ।। १९ ॥ हेमप्रख्यं पार्थिवे मण्डले वा नीहाराभं नीरजेऽग्नेस्तदाभम् । वायोः कृष्णं द्युप्रभं वा दिविस्थं कोडं व्याप्तं सत्यसंस्थं यजेद्वा ॥ २० ॥