पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

द्वाविंशः पटलः । एवं प्रोक्तैः प्रतिजपहुतार्चादिर्भिर्मत्रमेनं भक्त्या चो वा भजति मनुजो नित्यशः सोऽचिरेण । इष्टैः पुत्रैर्घरणिधनधान्यादिभिर्हृष्टचेता: स्यादप्यन्ते परमपरिशुद्धं परं धाम विष्णोः ॥ १२ ॥ अथ कथयामि विधानं महावराहाभिधानमन्त्रस्य । साङ्गं सजपं सहुता- राधनमपि मन्त्रिणामभीष्टाप्त्यै ॥ १३ ॥ वाक्यं प्रोक्त्वा हृदाख्यं तदनु भगवतेयुग्वराहं च रूपा- येत्युक्त्वा व्याहृतीनामुपरि च पतये भूपतित्वं च मेऽन्ते । देहीत्याभाष्य दान्तः सुमतिरथ पुनदीपयस्वेति हान्तं प्रोक्त्वा तारादिकं प्रोद्धरतु मनुवरं तत्र यस्त्रिंशदर्णम् ॥ ऋषिस्तु भार्गवः प्रोक्तोऽथानुष्टुप्छन्द ईरितम् । वराहो देवता चास्य कथ्यन्तेऽङ्गान्यतः परम् ॥ १५ ॥ अस्यैकशृङ्गो हृदयं शिरश्च व्योमोल्कतेजोऽधिपतिः शिखा च ।

  • P rr. 3