पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रपञ्चसारे द्रव्यैस्तै: प्रतिजुहुयाद्दशांशमानै- राचार्ये पुनरपि पूजयेज्जपान्ते । संप्राप्नोत्यपरिमितां श्रियं च कीर्ति कान्ति वा चिरमनुरज्यते च लोकैः ॥ ८॥ दूर्वा धृतप्रसिक्तां जुहुयादयुतं नरस्तु हुतशिष्टैः । आज्यैश्चरुमुपयुज्या- द्दद्याद्गुरवे च दक्षिणां शक्त्या ।। ९ ॥ परिपूजयेश्च विप्रां- स्तेषु दिनेषु स्वशक्तितो भक्त्या । अपमृत्युरोगपापा- न्विजित्य स तु दीर्घमायुराप्नोति ॥ १०॥ अनुदिनमादित्यमुखः प्रजपेदूर्ध्वीकृतस्वबाहुयुगः। तस्य गृहेऽनसमृद्धि- श्चिराय संजायते सुपुष्टतरा ॥ ११ ॥