पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

द्वाविंशः पटलः । दुग्धाब्धिद्वीपवर्यप्रविलसितसुरोद्यानकल्पद्रुमाधो भद्राम्भोजन्मपीठोपरिगतविनतानन्दनस्कन्धसंस्थः । दोर्भिर्बिभ्रद्रथाङ्गं सदरमथ गदापङ्कजे स्वर्णवर्णो भास्वन्मौलिविचित्राभरणपरिगत: स्याच्छ्रिये वो मुकुन्दः॥ दिक्पत्रेषु श्रीरति- धृतिकान्तीः कोणकेषु मूर्तीश्च । इष्ट्वाभितो निधीशौ विष्वक्सेनं च दिक्पतीन्प्रयजेत् ॥ ५ ॥ आराध्य चैवं विधिना च विष्णुं मन्त्री पुनर्होमविधिं करोतु । श्रीदुग्धवृक्षोत्थसमिद्भिरब्जैः साज्येन दौग्धेन च सर्पिषा च ।। ६ ।। पृथगष्टशतं क्रमेण हुत्वा कनकाद्यैरपि तर्पिते गुरौ च । अभिषिच्य तथामिपूज्य विप्रा- न्मनुमेनं प्रजपेदथाष्टलक्षम् ।। ७ । 1. श्रीवृक्षदुग्धोत्थ.