पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रपञ्चसारे द्रव्यैरथ स्वार्थपरार्थहेतोः कुर्यात्प्रयोगान्विधिना यथावत् ।। ३४ ।। पीताभा कर्णिका स्यादरुणतरमरं श्यामलं चान्तरालं नेमि श्वेतं च बाह्ये विरचितशितिरेखाकुलं पार्थिवान्तम् । चक्रद्वन्द्वं लिखित्वा विशदमतिरथो सौम्ययाम्यं च मन्त्री कुम्भं संपूर्य सौम्ये प्ररचयतु तथा दक्षिणे होमकर्म ।। षड्विंशच्छतसंमितैरथ घृतापामार्गजेमाक्षतैः सद्राजीतिलपायसैश्च सकलैर्द्रव्यैघृतान्तैः क्रमात् । हुत्वा तद्भुतशिष्टमन्त्र विधिवक्षिप्त्वा प्रतिद्रव्यकं प्रस्थार्धान्नकृतं च पिण्डममलं कुम्भोदके मन्त्रवित् ॥ संस्थाप्य दक्षिणस्यां साध्यं कुम्भेन तेन नीराज्य । तमथ घटं सद्रव्यं बहिरारावष्टमे क्षिपेद्राशौ ॥ ३० ॥ अग्न्यादिकमपि सर्व क्षिपेदथ घटस्य दक्षिणे भागे। 1. शिखिरेखाकुलं.