पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

एकविंशः पटलः । लक्ष्मी: सरस्वती चाथ रतिः प्रीत्याह्वया तथा । कीर्तिः कान्तिस्तुष्टिपुष्टी क्रमेणैव तु शक्तय: ॥ ३० ॥ संपूज्य चैवं विधिना हरिं तु शिष्यं गुरु: प्रीततमोऽभिषिञ्जेत् । भक्त्या स्वशक्त्या विभवैर्द्विजाती- न्संतर्प्य भूयो गुरुणानुशिष्टः ॥ ३१ ॥ एकाप्रचित्तो रविलक्षसंख्यं जपेन्मनुं नित्यकृतामिपूजः । तावत्सहस्रं किल सर्षपाश्च बिल्वाज्यदौग्धानि जुहोतु सम्यक् ॥ ३२ ॥ समुद्रतीरेऽप्यथ वाद्रिशृङ्गे समुद्रगानां सरितां च तीरे । जपेद्विविक्ते निज एव गेहे विष्णोगृहे वा पुरुषो मनस्वी ॥ ३३॥ यथोक्तसंख्यं विधिवत्प्रजप्ते मन्त्रे यथोक्तैश्च हुते हुताशे। 1. तिलसर्षपाश्च.