पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/३६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३२५
एकविंशः पटलः ।

अव्याद्भास्करसप्रभाभिरखिला भाभिर्दिशो भासय-
 न्भीमाक्षः क्षरदट्टहासविकसद्दंष्ट्राप्रदीप्ताननः ।
दोर्भिश्चक्रदरौ गदाञ्जमुसलास्त्रासींश्च पाशाङ्कुशौ
 विभ्रत्पिङ्गशिरोरुहोऽथ भवतश्चक्राभिधानो हरिः ॥२०॥

 प्रोक्त्वा सुदर्शनायेति विद्महेऽन्ते महापदम् ।
 ज्वालाय धीमहे चोक्त्वा तन्नश्चक्रः प्रचोदयात् ॥२१॥

 सौदर्शनीयं गायत्री जप्तव्या जप्तुमिच्छता ।
 सांनिध्यकारिणीं मुद्रां दर्शयेदनया सुधीः ।। २२ ।।

 नमो भगवते प्रोक्त्वा महासुदर्शनाय च ।
 महाचक्राय च तथा महाज्वालाय चेत्यथ ॥ २३ ॥

 दीप्तिरूपाय चेत्युक्त्वा सर्वतो रक्ष रक्ष माम् ।
 महाबलाय स्वाहेति प्रोक्तस्तारादिको मनुः ।
 रक्षाकरः प्रसिद्धोऽयं क्रियमाणेषु कर्मसु ॥ २४ ॥

षट्कोणान्त:स्थतारं विवरलिखितमन्त्राक्षरं सिद्धिराज-
त्स्वाङ्गं बाह्ये कलाकेसरमुदरगताष्टाक्षरं चाष्टपत्रम् ।