पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३२२ प्रपञ्चसारे शिखाललाटनेत्रास्यगलदोर्हृदयेषु च। सकुक्षिनाभिलिङ्गाख्यजानुपादेषु विन्यसेत्।।६।।

हृत्कुक्षिनाभिषु तथा गुह्यजानुपदेष्वधः। करकण्ठास्यदृङ्मस्तशिखासूर्ध्वं च विन्यसेत्।।७।।

संहृतेर्दोषसंहारः सृष्टेश्च शुभपुष्टयः। स्थितेश्च शान्तिविन्यासस्तस्मात्कार्यस्त्रिधा मतः।।८।।

हरिमुज्ज्वलचक्रदराब्जगदा कुलदोः परिघं सितपद्मगतम्। वलयाङ्गदहारकिरीटधरं नवकुन्दरुचं प्रणमामि सदा।।९।।

विधिवदथ विहितदीक्षो जपेन्मनुं वर्णलक्षमानममुम्। शुद्धैश्च तिलैर्जुहुया द्वादशसाहस्रकं तथा मन्त्री।।१०।।

पीठे हरेरथाङ्गैः सशक्तिभिर्मूर्तिभिस्तदनु यजेत्।