पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/३२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

एकविंशः पटलः ॥


 अथोच्यते द्वादशवर्णसंज्ञो
  मन्त्रस्तु साङ्गः सजपः सहोमः ।
 विधानतो यं प्रतिजप्य भक्ता
  भुक्तेश्च मुक्तेश्च पदं भवेयुः ॥ १ ॥

तारं सहृदयं मध्ये गवते स्युर्भवार्णयोः ।
सुययोश्च तथा देवा मन्त्रोऽयं द्वादशाक्षरः ॥ २ ॥

ऋषिः प्रजापतिश्छान्दो गायत्रं विष्णुरुच्यते ।
देवता हृध्दुवेण स्यान्नमसा शिर उच्यते ॥ ३ ॥

चतुर्भिश्च शिखावर्णैः पञ्चभिः कवचं भवेत् ।
प्रोक्तमस्त्रं समस्तेन पञ्चाङ्गविधिरीदृशः ॥ ४ ॥

सपादजानुयुगललिङ्गनाभ्युदरेषु च ।
हृद्दोर्गलस्यदृङमस्तशिखास्वक्षरतो न्यसेत् ॥ ५ ॥