पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/२८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३१७
विंशः पटलः ।

 एभिर्विधानधरणीव्रतादि-
  दीक्षाविधीन्ये विधिना प्रकुर्युः ।
 ते पुण्यभाजो नितरां समृद्धाः
  सपुत्रदारा: सुखिनो भवन्ति ॥ ४८ ॥

 दीर्घायुषो मुख्यतरेन्दिराश्च
  महाप्रभावा: स्वसमानवीर्याः ।
 कलेबरान्ते विगताधयस्ते
  विष्णोरनन्यं पदमाप्नुवन्ति ॥ ४९ ॥

 एभिर्विधेयाः कलशाश्च तत्त.
  न्मासोक्तयन्त्रेषु नरैर्यथावत् ।
 निजेप्सितं प्राप्य मनोरथान्ते
  भुक्तेश्च मुक्तेरनुभावका: स्युः ॥ ५० ॥

 कर्षोन्मिते च हाटक-
  पट्टे पत्रं विलिख्य चतुरश्रे।
 साहित्र्यंशकृते वा
  कलशेषु विनिक्षिपेञ्च दीक्षासु ॥ ५१ ॥