पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रपञ्चसारे अच्युतकामिनिभानुमनोज्ञा विश्वतनुर्विमला हरिभद्रे । सूक्ष्मसरस्वतिनन्दनसंध्या स्यादिति मध्यगता वृतिरेषा ॥४४॥ अवनिपशुपुलसंपद- मपि पितृसौख्यं च हृत्प्रबोधं च । कुरुते विधानमेत- त्प्रयोक्तुरन्ते च निवृतिं परमाम् ॥ ४५ ॥ व्यन्वेष्यस्वदीर्घाच्समभिवृतमहाबीजमश्रेषु षट्सु द्योतत्सौर्मारलक्ष्मीगिरिदुहितृधराबीजकप्रोंसमेतम् । वीतं काद्यैः कषान्तैर्बहिरपि च कुकोणाष्टकोल्लासिहंसं सर्वार्थान्साधकेभ्यो वितरति विधिवत्कल्पितं मीनयन्त्रम् ।। हृष्टिर्वृष्टिस्तुष्टिरिष्टा सुपुष्टिः कान्तिर्मेधा मङ्गला वामसंज्ञा । दुर्गा प्रज्ञा भारती मध्यसंस्था वाक्सामर्थ्ये श्रीकरं स्याद्विधानम् ।। ४७ ।। 1. अच्युतभामिनि. 2. द्योतद्वाङ्मार,