पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रपञ्चसारे भूतिर्विभूतिरुन्नति- नतिधृतिरतयश्च संयतिद्युतयः । आवृतिरेका प्रोक्ता श्रीवश्यकरं विधानमिति कथितम् ।। २७ ।। ऊष्मार्णाष्टाक्षरावेष्टितहृदयमथ द्वादशार्णात्तकोणं सान्त:स्थात्माष्टवर्णैः क्रमगतविगतैरुल्ल सत्तत्त्वगण्डम् । सिंहानुष्टुब्द्वयार्णान्तरितवृतकलालंकृतं चाथ वह्नि- प्राणेशानक्षपाटाश्रितकचटतपत्वच्छलं सिंहयन्त्रम् ।। पुष्टिस्तुष्टिर्धृतिरपि कृतिः शान्तिकान्तिप्रमोदा मेधा हर्षा स्मृतिरभिमता कान्तिका स्यात्तृतीया । कृष्णः सत्यो नृहरिवरदौ विश्वमूर्तिर्वरेण्यः शौरिः शूरो नरमुरजितौ विष्णुजिष्णू चतुर्थी ॥ २९॥ विपक्षनिग्रहं तेजो यशश्च धनसंगमम् । करोत्यर्चयितॄणां च विधानमिति सिंहजम् ॥ ३० ॥ सर्गाद्यान्ताद्यमन्तैरभिवृतह्रदयं दण्डिभिश्चापि हाही- हूहैहौहोभिरात्तश्रिक्रमथ तु शिखाद्योतिवर्गान्त्यवर्णम् । 1. यशलं.