पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/२१९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रपञ्चसारे अलसं मलसंक्लिन्नं क्लिष्टं क्लिष्टान्ववायजम् । दम्भान्वितमगम्भीरं चण्डं पण्डितमानिनम् ॥ ४२ ॥ रागिणं रोगिणं भोगलालसं बालसंमतम् । रौद्रं दरिद्रं निद्रालुमाद्यूनं क्षुद्रचेष्टितम् ।। ४३ ॥ नृशंसमन्धं बधिरं पङ्गुं व्यङ्गममङ्गलम् । अतिदीर्घमतिहस्वभक्तिस्थूलकृशात्मकम् ।। १४ ।। आदित्सुं कुत्सितं वत्सं बीभत्सं मत्सरात्मकम् । परदारपरं भीरुं दारुणं वैरिणं सत्ताम् ।।४५ ॥ लुब्धं त्वलब्धवैदग्ध्यं स्तब्धं लुब्धकबान्धवम् । सुखिनं मुखरं दुर्गं दुर्मुखं मूकमानसम् ।। ४६ ।। प्रत्यममुग्रं व्यग्रेमप्रगण्यं दुरात्मनाम् । प्रष्टव्यकं तमःस्पृष्टं क्लिष्टामेष्टापहं नृणाम् ॥ १७ ॥ स्वार्थकृत्यं प्रसक्तार्थं निरारम्भणं शठम् । ईदृग्विधं गुरुः शिष्यं न गृह्णीयात्कथंचन ।। ४८ ॥ यदि गृह्णाति तद्दोषः प्रायो गुरुमपि स्पृशेत् । मन्त्रिदोषो यथा राज्ञि पत्यो जायाकृतो यथा ॥ १९ ॥