पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/२१८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

त्रयस्त्रिंशः पटलः । नित्यश: कायवाक्चित्तैस्त्रिव्द्यैकाव्दादिकावधि । परिचर्यापरः शिष्यः स्यात्सुसंयतमानस: !! ३४ ।। तं तथाविधमालक्ष्य सदावितथवादिनम् । मातृत: पितृतः शुद्धं बुद्धिमन्तमलोलुपम् ।। ३५ ।। अस्तेयवृत्तिमास्तिक्ययुक्तं मुक्तिकृतोद्यमम् । अकल्मषं मृषाहीनमहीनद्रव्यमानसम् ।। ३६ ॥ ब्रह्मचर्यपरं नित्यं परिचर्यापरं गुरोः । अल्पाशनिद्रं पूजायामनल्पकृतकल्पनम् ।। ३७ ।। अधीतवेदं स्वाधीनमनाधिं व्याधिवर्जितम् । तरुणं करुणावासं परितोष्करं गुरोः ॥ ३८ ॥ सुवेषमेषणातीतममलं विमलाशयम् । सुप्रसन्नं प्रसन्नाङ्गं सदा संनिहितं गुरोः ॥ ३९ ॥ परोपकारनिरतं विरतं परदूषणे । मातृवद्गुरुपत्नीं च भ्रातृवत्तत्सुतानपि ॥ ४० ॥ स्मरन्तमस्मराबाधं स्मितोपेतमविस्मितम् । परिग्रहे परीक्ष्यैव शिष्यमेवंगुणं गुरुः ॥ ४१ ।।