पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/२१७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रपञ्चसारे इष्टदोऽनिष्टसंहर्ता दृष्टादृष्टसुखावहः । रतोऽविरतमर्चासु परं पुरमुरद्विषोः ॥ २६ ॥ शान्तो दान्तः शान्तमना नितान्तं कान्तविग्रहः । स्वदुःखकरणेनापि परं परसुखोद्यतः ॥ २७ ॥ ऊहापोहविदव्यग्रो लोभमोहविर्जितः । अज्ञानुकम्प्यविज्ञातज्ञानो ज्ञातपरेङ्गितः ।। २८ ३॥ निरंशसांशवित्सर्वसंशयच्छिदसंशयः । नयविद्विनयोपेतो विनीतो न चिरात्मवान् ॥ २८ ॥ व्याधिरप्रापितव्याधिः समाधिविधिसंयुतः । श्रुतिधीरोऽतिधीरश्च वीरो वाक्यविशारदः ॥ ३० ॥ वर्गोपेतसमारम्भो गभीरो दम्भवर्जितः । आदर्श इव विद्यानां न तु दर्शनदूषकः ॥ ३१ ॥ असौ मृग्यश्च दृश्यश्च सेव्यश्चाभीष्टमिच्छता । शिष्यस्तदावर्जनकृहेहेन द्रविणेन च ॥ ३२ ॥ तस्य पादारविन्दोत्थरज:पटलरूषणः | स्नानमप्राप्य न प्राप्यं प्रायो बुद्धिमतेप्सितम् ।। ३३ ।।