पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/२१६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

त्रयस्त्रिंशः पटलः । लक्ष्मीतेजोयुक्तो धर्मरुचिर्भवति संतते: कर्ता ।। १९॥ समुनिसुरपितृभ्यो ब्रह्मचर्येण यज्ञै- स्त्रिविधमृणमपत्यैश्चैव संमोचयेद्यः । श्रुतिवचनकृदम्भिन्वापि लोके परस्मि- न्निति स तु गृहमेधी पूज्यते साधुलोकैः ।। वर्णादिको हलोमन्त्र: संकोचाख्यो ध्रुवादिकः । मन्त्रः स्याद्भूतमनवः स्युश्च भूतात्मनात्मभिः ॥ २१॥ अथो हिताय जगतां प्रथितं शितचेतसाम् । अध संक्षिप्य वक्ष्यामि लभ्रणं गुरुशिष्ययोः ।। २२ ॥ स्वच्छ: स्वच्छन्दसहितोऽतुच्छधी: सक्तहृच्छयः । देशकालादिविद्देशे देशे देशिक उच्यते ॥ २३ ॥ अग्रगण्य: समग्रज्ञो निग्रहानुग्रहक्षमः । षड्वर्गविजयव्यग्रोऽनुग्रो विगतविग्रहः ॥ २४ ॥ शुक्लशुक्लांशुकोत्कृष्टकर्मा विक्लवमानसः । वेदवेदाङ्गविद्वादी वेदिताविदितागम: ॥ २५ ॥ 1. वर्गादिको; 2. स्वच्छन्दचरितो