पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/२०५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रपञ्चसारे अन्नं मय्यह्यन्नं मे देह्यन्नाधिपतये ममेत्युक्त्वा ! अन्नं प्रदापयेति च ठद्वयुगान्तोऽन्नदायको मन्त्रः ॥ ५१ ॥ करणेन्द्रियरसधातु- द्वयवर्णैरङ्गमन्त्रपत्रपदैः। व्द्ययुतजपावधिरेष द्विसहस्रहतं च सर्पिरन्नाभ्याम् ॥ ५२ ।। दुग्धाब्धौ रूप्यवप्रावृतकनकमयद्वीपवर्ये सुराढ्ये कल्पद्रुद्यानकाधो मणिमयलसिते वित्तसस्याप्रभागे । आसीने भूश्रियौ वाञ्छितवसुनिचयं मन्त्रिणे संमृजन्त्यौ मन्त्री संचिन्तयानो जपतु दिनमुखे संपदेऽन्नस्य मन्त्रम् ॥ नत्यादिभगवत्यन्ते माहेश्वरिपदं वदेत् । अन्नपूर्णेऽग्निजायान्तो मन्त्रोऽन्नप्रसंज्ञकः ।। ५४ ॥ मायाविहितषडङ्गो दिनमुखजप्यश्च षोडशसहस्रम् । 1. मस्य मन्त्रपदैः