पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/१९८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

द्वात्रिंशः पटलः । यन्त्रं तदेव लाक्षा- ताम्रावीतं निधाय कलशजले । जस्वा भानुसहस्रक- मभिषिञ्चेद्रजतकाञ्चनाभ्यां च ॥ २० ॥ तद्वविधाय कलशे तद्यन्त्रं धारयेत्पुनर्नित्यम् । वाञ्छितसिद्धिं लभते भक्त्या प्रणमन्ति देवता अपि तम् ।। २१॥ यन्त्रं तदेव विधिव- द्भित्तावालिख्य पूजयेद्दिन्दशः । चोरारिभूतनागा अपि तं देशं न वीक्षितुं शक्ताः ॥ २२ ॥ आलिख्य बीरपट्टे यन्त्रमिदं मस्तकार्पितं कृत्वा । युध्यन्प्रत्यर्थिनमपि हत्वा यात्यत्रणाङ्कितो योद्धा ॥ २३ ॥ 1. कलशं