पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/१९७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रपञ्चसारे तद्धटार्गलाख्यं यन्त्रं नीले विलिख्य पट्टवरे । मेचकसाध्यप्रतिकृति- हृदये गुलिकां विधाय निक्षिप्य ॥ १६ ॥ त्रिमधुरपूर्णे पात्रे विन्यस्याभ्यर्च्य गन्धपुष्पाद्यैः । बलिमपि विकिरेद्रात्रिषु सप्ताहादानयेद्वधूमिष्टाम् ॥ १७ ॥ तामेवाथ प्रतिकृति- मग्नौ किंचित्प्रतापयेत्प्रजपन् । शक्तिं पाशाङ्कुशमनु- साध्याह्वयदर्भितां समाहितधीः ॥ १८ ॥ विधिनामुना त्रिरात्रा- द्गर्वितधियमपि सुराङ्गनां मन्त्री । आकर्षेन्निजवाञ्छा- प्रदायिनीं मदनबाणविह्वलिताम् ।। १९ ॥ 1. मोचक.