पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/१९३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

द्वात्रिंशः पटलः ॥ अथ यन्त्रविरचनाभि- र्मन्त्रविशेषान्बहुप्रकारयुतान् । कथयिष्ये मन्त्रविदा- मैहिकपारत्रिकाप्तये सुधियाम् ॥ १॥ त्रिगुणितसंज्ञे माया- लंकृतकोणे तयाभिवीते च । या या विशेषक्लृप्ति- स्तां तामपि संग्रहेण समभिदधे ॥ २ ॥ कोणोल्लसितसुधाक्षर- गलदमृतस्फुरितवह्निपरिवीतान् । बिन्दोर्मध्यगबीज- स्थितान्सुधाधारया परिस्रुतया ।। ३ ।।