पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/१९१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रपञ्चसारे धूम्राणि विद्वेषविधौ समोहे पीतानि संस्तम्भविधौ स्मरेच्च ॥ १६ ॥ अथ वा साध्यप्राणा- मण्डूकाकारधारिणो ध्यायेत् । स्वीयान्भुजगाकारा- नभिचारादौ नृशंसकर्मविधौ ॥ १७ ॥ प्राणप्रतिष्ठाकर्मैवं विधायैकादशापरम् । पुत्तल्यादौ खचित्ते वा तांस्तु संस्तम्भयेद्भुवा ॥ १८ ॥ आकृष्टानां लाध्यदेहादसूनां पुत्तल्यादावप्ययं स्यात्प्रकारः । किं तु स्वीये हृत्सरोजे प्रवेशो वश्याकृष्टयोरेव नात्राभिचारे ॥ १९ ॥ पाशाद्यत्रिकयुक्तमूलहृदयभ्रूमध्यसूत्राथिता साग्निः साध्यललाटरन्ध्रवगतोऽप्यामूलमाजग्मुषि । योन्यां त्वामहृदजमेवमनिशं भ्राम्यत्यसौ चिन्त्य तं शक्तिर्जन्मशतान्यपीह वशयेत्साध्यं समाकर्षयेत् ॥२०॥ 1. पतितामामूलमाजग्मुषि