पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/१८८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

एकत्रिंशः पटलः । प्रत्येक कादिवर्गैः प्रतिगर्तालिपिकैर्विन्दुयुक्तैर्धराद्यैः शब्दाद्यैः श्रोत्रमुख्यैर्वदनकरमुखैस्तक्रियाभिः क्रमेण । बुद्धथाद्यैश्चात्मनेऽन्तैरुपरि च विलसज्जातिभिः षड्भिरेवं कुर्वांदङ्गानि सभ्यग्वरविशदमतिर्विश्वरूपत्वसिद्ध्यै ॥३॥ नाभेर्देशादापदं पाशवीजं हृद्देशादा नाभिदेशं च शक्तिम् । आहृदेशं मस्तकादङ्कुशाख्यं न्यस्त्वा यादीन्धातुभिर्न्यस्य सप्त ।। ४ ॥ प्राणे जीवे चैव हंसश्च यार्णन्यस्येन्मूलं व्यापकं मस्तकादिम् । एवं न्यस्य प्राणशक्तिस्वरूपं विद्यां ध्यायेदात्मरूपां च देवीम् ।। ५ ।। रक्ताम्बोधिस्थपोतोल्लसदसणसरोजाधिरूढा कराब्जैः पाशं कोदण्डमिक्षुद्भवमथ गुणमप्यकुशं पञ्चवाणान् । बिभ्राणा स्रक्कपालं निणयनलसिता पीनवक्षोरुहाढ्या देवी बालार्कवर्णा भवतु सुखकरी प्राणशक्तिः स्वरूपा ।। 1. जन्तुषु न्यस्त 2. बिभ्रत्