पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/१७९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१६८ प्रपञ्चसारे तासु हृद्देशलिखितसाध्याख्यासु समाहितः । सम्यक्संस्थापयेत्प्राणान्साध्यादानीय साधकः ।। ८९ ।। उक्तानां दारवीं कुण्डे स्वनेन्मन्त्राभिमन्त्रिताम् । विष्ठरां विष्टरस्याध: पादस्थाने च मृन्मयीम् ॥ ९० ॥ लम्बयेदम्बरे सिद्धमयीमूर्ध्वमधोमुखीम् । पुनः कृष्णाष्ट्रमीरात्रौ पूर्वयामे गते सति ॥ ९१ ।। रक्तमाल्याम्बरो मन्त्री कृतरक्तानुलेपनः । सम्यकृतलिपिन्यासप्राणायामादिकः शुचिः ॥ ९२ ।। कुडुबं पोतलवणं सुश्लक्ष्णं परिचूर्णितम् । दधिक्षौद्रघृतक्षीरैः प्रोक्षयित्वा सुशोधितम् ।। ९३ ॥ आलोड्य गुडमध्वाज्यैर्विस्पष्टावयवामथ । तेन पुत्तलिकां मन्त्री चार्वङ्गीं कारयेत्सुधीः ॥ ९४ ।। तस्यां च स्थापयेत्प्राणान्गुर्वादेशविधानतः । अष्टोर्ध्वशतसंख्यं वा तथाष्टोर्ध्वसहस्रकम् ।। ९५ ॥ ऋक्पञ्चकं पञ्चविंशत्संख्यं प्रतिकृतिं स्पृशन् । जपित्वाङ्गीनि विन्यस्येत्स्वाङ्गप्रतिकृतावपि ।। ९६ ॥