पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/१७५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

४६४ प्रपञ्चसारे दौग्धान्नैर्भृगुबारे धृतसंसिक्तैः कृतश्च हवनविधिः । ऋणमोक्षदश्व विविधो पद्रवशमकृद्रमाकरः प्रोक्तः ।। ६८ ।। पश्चिमसंध्यासमये पश्चिमवदनोऽनलं समाराध्य । ऋचमेनामभिजप्या- च्चतु:शतं सकलदुःखनाशाय ।। ६९ ॥ शालीधृतसंसिक्ताः सरिदन्तरतो जुहोतु परसेनाम् । संस्तम्भयितुं त्रिदिनं सुमना मन्त्री चतुःशतावृत्त्या ।। ७० ॥ प्रत्यक्ष्मुखोऽथ मन्त्री प्रतर्पयेद्वा जलैः सुशुद्धतरैः। य: सोऽप्युपद्रवाणां रुन्धेन्निवहं श्रियं समृच्छति च ॥ ७१ ।।