पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/१७४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

त्रिंशः पटलः । वैतससमिदयुतहुता. दृष्टिमकालेऽपि क्तिनुते वरुणः । गव्यक्षीरसमेता- स्त्रिदिनकृताद्दिनमुखेषु मुदितमना: ॥ ६४ ॥ शतभिषाज समुदित्तेऽर्के चतुःशतं पायसं हुनेत्सघृतम् । ऋणमोचनाय लक्ष्म्यै जनसंबननाय शुक्रवारे वा ।। ६५ ।। पाशाबद्धं वैरिण- मङ्कुशसंप्रोतमम्बुधेः पारे। ध्यायन्परे क्षिपन्तं वरुणं जुहुयाश्च वा तथा प्रजपेत् । पाशनिबद्धं वैरिण- मसिना च्छित्वाशु नाशयन्तममुम् । ध्यायन्वेतससमिधा गोमूत्रयुजा हुनेत्तदपहत्यै ।। ६७ ।।