पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/१७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

त्रिंशः पटलः । सहस्रकाणां दशभिश्चतुर्भिर- प्यथो सहस्रैश्च चतुर्भिरन्वितम् । जपेन्मनुं सम्यगथाभिदीक्षितः पयोन्धसान्ते जुहुयाद्दशांशकम् ॥ ४॥ यजेत्पुराङ्गैश्च तदर्धनाविधौ पुनर्द्वितीयावरणेऽग्निमूर्तिभिः । अनन्तरं च त्रिदिवेश्वरादिभिः क्रमेण वह्निं विधिनेति पूजयेत् ॥ ४८ ॥ संवादसूक्ते विधिनत्यनेन संसाधिते कर्म करोतु मन्त्री । चतुःशतं चापि दशोत्तरेण चतुश्चतुष्कं प्रजपेद्धुनेद्वा ।। ४९ ।। पायसेन मधुरत्रयभाजा विप्रराजतरुजैः कुसुमैर्वा । -सर्पिषा स्तनजवृक्षसमिद्भि- र्वाञ्छितार्थविधये प्रजुहोतु ॥ ५० ॥