पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/१६९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रपञ्चसारे संवादसूक्तनिहितं विधानमथ साङ्गदेवतारूपम् । वक्ष्यामि साधकाना- मनुदिनमभिवाञ्छित्तप्रदानकरम् ॥ ४३ ।। ऋषिरपि संबननोऽस्या- नुष्टुप्च त्रिष्टुबुच्यते च्छन्दः । संवादाद्यः प्रोक्तः संज्ञानाद्यश्च देवता वह्निः ।। ४४ ।। ब्रह्माख्यो हृदयमनुः शिरश्च विष्णू रुद्रः स्वादिह तु शिखेश्वरश्च वर्म। नेत्रे द्वे भवति सदाशिवस्तथास्रं सर्वात्मेत्यथ कथितं षडङ्गमेवम् ॥ ४५ ॥ धवलनलिनराजश्चन्द्रमध्ये निषण्णं करविलसितपाशं साङ्कुशं साभयं च । सदरदममलेन्दुक्षीरगौरं त्रिणेत्रं प्रणमत सुरवक्त्रं मङ्क्षु संवादयन्त्रम् ।। ४६ ।।