पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/१६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

त्रिंशः पटलः ।

आर्द्रा प्रज्ञा प्रभा मेधा कान्तिः शान्तिद्युतिर्मतिः । परोमा पावनी पद्मा शान्ता मेधा जयामला ।। १३ ।। द्वात्रिंशदिति निर्दिष्टाः शक्तयोऽनुष्टुभः क्रमात् । शिवानुभावतो नित्यं जगदाप्याययन्ति याः ।। १४ ।। इति परिपूज्य महेशं कलशजलैः समभिषेषयेच्छिष्यम् । कनकांशुकरत्नाद्यै- र्गुरुमपि परिपूज्य मनुमत: सिद्धम् ॥ १५॥ प्रजपेल्लक्षायत्या द्रव्यैर्जुहुयाज्जपावसाने च । बिल्वपलाशौ खदिरो बटतिलसिद्धार्थदोग्धदुग्धानि ॥ १६ ।। दधिदूर्वेति दशैता- न्याज्यसमेतानि होमवस्तूनि । एकैकशः सहस्रं दशभिर्दुत्वा प्रतर्प्य विप्रांश्च ॥ १७ ॥2. शान्तिधृति. 3. मेघर 1. वरा