पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/१६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

॥ प्रपञ्चसारः॥

विंशः पटलः॥


 अथ प्रवक्ष्यामि च मासभेद-
  भिन्नानि यन्त्राण्यपि संग्रहेण ।
 रेखाक्रमद्युन्ति विचित्रवर्ण-
  लसन्ति विष्णोश्च विधानभाञ्जि ॥१॥

 यैः कुर्युरिष्ठाप्तिनिविष्टचेष्टा
  धरण्यनन्तादिकसंज्ञकानि ।
 व्रतान्यभीष्टार्थदकल्पवृक्षै-
  रनारतेनैव च साधकेशाः ॥२॥