पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/१५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

एकोनत्रिंशः पटलः ।

यद्यद्वाञ्छति पुरुष- स्तत्तदमुष्य प्रभावतः साध्यम् । सग्रहनक्षत्राद्यां सगिरिपुरग्रामकाननां वसुधाम् ।। ९८ ।। साहिझषोपलमुदधिं दहति ह मतिमानयत्नमेतेन । एवं प्रोत्थापयति च मन्त्रेणानेन निशितधीर्मन्त्री ॥ पुंसा केन कियद्वा मन्त्रस्याचक्षतेऽस्य सामर्थ्यम् ।। ९९ ।। तस्मादेनं मनुवरमभीष्टानये संयत्तात्मा जप्यान्नित्यं सहुतविधिरप्यादरादर्चयीत । भक्त्या कुर्यात्सुमतिरभिषेकादिकं कर्मजातं कतै वान्यत्प्रवणमतिरत्रैव भक्तः सदा स्यात् ।। इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ प्रपञ्चसारे एकोनविंशः पटलः ।