पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/१५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

एकोनत्रिंशः पटलः ।

शुद्धैश्च तण्डुलैरपि हविर्विनिष्पाद्य पञ्चगव्यमपि । सघृतेन तेन जुहुया. दष्ट सहस्त्रं समेतसंपातम् ।। ८२ ।। प्राशितसंपातस्य स्थाद्रक्षा सर्वथैव साध्यस्य । प्राङ्गणमन्दिरयोरपि निखनेद्वारे च शिष्टसंपातम् ।। ८३ ।। कृत्या नश्यति तस्मि- न्वीक्षन्ते न प्रहादयो भीत्या । कारमेव कुपिता कृत्या सर्वात्मना च नाशयति ।। ८४ ।। ब्रह्मगुमफलकान्ते मन्त्रितमः सप्तसप्तकोष्ठयुते । कोणोदराणि हित्वा मायाबीजं सकर्ममध्यगते ।। ८५ ॥ 1. समे ससंपातम्