पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/१५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रपञ्चसारे

सिंहस्थाशरनिकरैः कृशानुवक्त्रै- र्धावन्तं रिपुमनुधावमानमेनाम् । मंचिन्त्य क्षिपतु जलं दिनेशबिम्बे जत्वामुं मनुमपि चाटनाय शीघ्रम् ।। ७८ ।। कृत्वा स्थण्डिलमङ्गणे भगवती न्यासक्रमरचये- इन्धाद्यैः पुनरन्धसा च विकिरन्मन्त्री निशायां बलिम् । जप्त्वा मन्त्रममुं च रोगसहिताः कृत्यानिकृत्या कृतां- स्तास्तान्भूतपिशाचवैरिविहितान्दु:खानसौ नाशयेत् ।। विधिवदभिज्वाल्यानल- मन्वहमाराध्य गन्धपुष्पाद्यैः । संध्याजपाच मनुरय- माकाङ्कितसकलसिद्धिकल्पतरुः ।। ८० ॥ कुसुमरसलुलितलोणे- वारुणवदनो जुहोतु संध्यासु । मन्त्रार्णसंख्यमने- रैक्येन द्रावयेदरीनचिरात् !! ८१ ॥